Sbg 11.43 scanand

From IKS BHU
Jump to navigation Jump to search

Sanskrit Commentary By Sri Anandgiri ।।11.43।।वाचनिकं मदीयमपराधजातं त्वया क्षन्तव्यमित्युक्तमिदानीं मदीयोऽपराधो न त्वया गृहीतव्यो गृहतोऽपि सोढव्य इत्याह -- यत इति। गुणाधिक्यात्पूजार्हत्वं धर्मात्मज्ञानसंप्रदायप्रवर्तकत्वेन शिक्षयितृत्वाद्गुरुत्वं गुरूणामपि सूत्रादीनां गुरुत्वाद्गरीयस्त्वं तदेव प्रश्नद्वारा साधयति -- कस्मादिति। ईश्वरान्तरं तुल्यं भविष्यतीत्याशङ्क्याह -- नहीति। ईश्वरभेदे प्रत्येकं स्वातन्त्र्यात्तदैकमत्ये हेत्वभावान्नानामतित्वे चैकस्य सिसृक्षायामन्यस्य संजिहीर्षासंभवाद्व्यवहारलोपादयुक्तमीश्वरनानात्वमित्यर्थः। अभ्यधिकासत्त्वं कैमुतिकन्यायेन दर्शयति -- त्वत्सम इति। तत्र हेतुमवतार्य व्याकरोति -- अप्रतिमेत्यादिना।