Sbg 11.40 scsri
Jump to navigation
Jump to search
Sanskrit Commentary By Sri Sridhara Swami ।।11.40।।किंच -- नम इति। हे सर्व सर्वात्मन्? सर्वास्वपि दिक्षु तुभ्यं नमोऽस्तु। सर्वात्मकत्वमुपपादयन्नाह। अनन्तं वीर्यं सामर्थ्यं यस्य? तथाप्यमितो विक्रमः पराक्रमो यस्य सः? एंवभूतस्त्वं सर्वं विश्वं सम्यगन्तर्बहिश्च सर्वात्मधापि समाप्नोषि व्याप्नोषि सुवर्णमिव कटककुण्डलादि स्वकार्यं व्याप्य वर्तसे सर्वरूपोऽसि।