Sbg 11.40 scdhan

From IKS BHU
Jump to navigation Jump to search

Sanskrit Commentary By Sri Dhanpati ।।11.40।।पुरस्तात् पूर्वस्यां दिशि तत्तद्रूपेण स्थिताय ते तुभ्यम्। अथ पृष्ठस्ते तुभ्यं नमोस्तु। सर्वत एव सर्वासु दिक्षु स्थिताय। हे सर्व। यद्वा पुरस्तात्कर्मणमादौ पृष्ठस्तेषां समाप्तौ सर्वतः मध्येऽपि ते नमोस्ित्वति। अस्मिन्पक्षे कर्मणामित्यध्याहारदोषः सर्वत इत्यादि संकोचे मानाभावश्च बोध्यः। हे सर्वेत्युक्तं निरुपयति। अनन्तं सामर्थ्य यस्य? अमितः पराक्रमः शस्त्रादिविषये यस्य अनन्तवीर्यश्चासौ अमितविक्रमश्च सः त्वं हेऽनन्तवीर्येति व्यस्तपक्षस्त्वाचार्यैः गौरवात् विशेषाभावाच्च न प्रदर्शितः। सर्वमखिलं विश्वं सम्यगाप्नोषि व्याप्नोषि। यतस्ततोऽसि सर्वः। त्वया विना भूतं न किंचिदस्तीत्यर्थः।