Sbg 11.39 scsh

From IKS BHU
Jump to navigation Jump to search

Sanskrit Commentary By Sri Shankaracharya ।।11.39।। --, वायुः त्वं यम श्च अग्निः वरुणः अपां पतिः शशाङ्कः चन्द्रमाः प्रजापतिः त्वं कश्यपादिः प्रपितामहश्च पितामहस्यापि पिता प्रपितामहः? ब्रह्मणोऽपि पिता इत्यर्थः। नमो नमः ते तुभ्यम् अस्तु सहस्रकृत्वः। पुनश्च भूयोऽपि नमो नमः ते। बहुशो नमस्कारक्रियाभ्यासावृत्तिगणनं कृत्वसुचा उच्यते। पुनश्च भूयोऽपि इति श्रद्धाभक्त्यतिशयात् अपरितोषम् आत्मनः दर्शयति।।तथा --,