Sbg 11.39 scang
Jump to navigation
Jump to search
Sanskrit Commentary By Sri Abhinavgupta ।।11.39।।नमो नम इति। नमोनम इत्यनेन पौनःपुन्यं भक्त्यतिशयाविष्कारकम्। यदेव भगवता अतिक्रान्ताध्यायैरभ्यधायि स्वस्वरूपम्? तदेव अर्जुनः प्रत्यक्षोपलम्भविषयापन्नं स्तोत्रद्वारेण प्रकटयति इति तद्व्याख्यानं केवलं पौनरुक्त्यप्रसङ्गायेति विरम्यते।