Sbg 11.36 scvv

From IKS BHU
Jump to navigation Jump to search

Sanskrit Commentary By Sri Vedantadeshikacharya Venkatanatha


।।11.36।।स्थाने हृषीकेष इति श्लोकः श्रीविष्णुपञ्जरादिषु विनियुक्तो मन्त्रः प्रसिद्धः।स्थाने इत्यस्य अधिकरणार्थताप्रतीतिव्युदासायाहयुक्तमिति। अत्र जगच्छब्दविवक्षितार्थं तस्य प्रकीर्तिमूलप्रहर्षनिदानं च व्यनक्तियदेतदिति।प्रहृष्यति इत्यनेन प्रियातिथिलाभादाविवाक्षिमनः प्रीतिर्विवक्षिता।अनुरज्यते इति तु पित्रादिषु पुत्रादेरिव स्नेह इत्यपुनरुक्तिः।त्वामवलोक्येत्यनेन रक्षसां भीतिहेतुप्रदर्शनम्।प्रकीर्त्या इत्यस्यानुषङ्गस्तु विरुद्धत्वादयुक्तः। अन्यकर्तृकप्रकीर्त्येति तु कल्पनागौरवम्। अवलोकनं तुवीक्षन्ते त्वा [11।22] इति देवासुरादीनां सर्वेषामुक्तमिति भावः। सिद्धशब्दोऽत्रानुकूलवर्गप्रदर्शनार्थ इत्यभिप्रायेणसिद्धाद्यनुकूलसङ्घा इत्युक्तम्।