Sbg 11.33 scpur
Jump to navigation
Jump to search
Sanskrit Commentary By Sri Purushottamji
।।11.33।।अत एव त्वमनायासेन यशो गृहाणेत्याह -- तस्मादिति। हे सव्यसाचिन् सव्येन वामेन हस्तेन सचितुं सन्धातुं शीलं यस्य तादृशस्त्वमुत्तिष्ठ युद्धार्थं सज्जो भव। यशो लभस्व सव्यहस्तेनैव सर्वे मारिता इत्यादिरूपम्। शत्रून् दुर्योधनादीन् जित्वा समृद्धं राज्यं भुङ्क्ष्व। एते मया पूर्वमेव त्वन्मारणात् प्रथममेव निहताः मारिताः? अतो निमित्तमात्रं भव लोककथनार्थमर्जुनेन सर्वे मारिता इति।