Sbg 11.22 scsh

From IKS BHU
Jump to navigation Jump to search

Sanskrit Commentary By Sri Shankaracharya ।।11.22।। --, रुद्रादित्याः वसवो ये च साध्याः रुद्रादयः गणाः विश्वे देवाः अश्विनौ च देवौ मरुतश्च ऊष्मपाश्च पितरः? गन्धर्वयक्षासुरसिद्धसंघाः गन्धर्वाः हाहाहूहूप्रभृतयः यक्षाः कुबेरप्रभृतयः असुराः विरोचनप्रभृतयः सिद्धाः कपिलादयः तेषां संघाः गन्धर्वयक्षासुरसिद्धसंघाः? ते वीक्षन्ते पश्यन्ति त्वा त्वां विस्मिताः विस्मयमापन्नाः सन्तः ते एव सर्वे ।।यस्मात् --,