Sbg 11.22 scms

From IKS BHU
Jump to navigation Jump to search

Sanskrit Commentary By Sri Madhusudan Saraswati ।।11.22।।रुद्रादित्या इति। किंचान्यत् रुद्राश्चादित्याश्च वसवो ये च साध्या नाम देवगणा,विश्वतुल्यविभक्तिकविश्वेदेवशब्दाभ्यामुच्यमाना देवगणा अश्िवनौ नासत्यदस्रौ मरुत एकोनपञ्चाशद्देवगणा ऊष्मपाश्च पितरो गन्धर्वाणां यक्षाणामसुराणां सिद्धानां च जातिभेदानां सङ्घाः समूहा वीक्षन्ते पश्यन्ति त्वा त्वां। तादृशाद्भुतदर्शनात्ते सर्व एव विस्मिताश्च। विस्मयलौकिकचमत्कारविशेषमापद्यन्ते च।