Sbg 11.20 scms

From IKS BHU
Jump to navigation Jump to search

Sanskrit Commentary By Sri Madhusudan Saraswati ।।11.20।।प्रकृतस्य भगवद्रूपस्य व्याप्तिमाह -- द्यावेति। द्यावापृथिव्योरिदमन्तरिक्षं हि एव त्वयैवैकेन व्याप्तं। दिशश्च सर्वा व्याप्ताः। दृष्ट्वाद्भुतमत्यन्तविस्मयकरमिदमुग्रं दुरधिगमं महातेजस्वित्वात्तव रूपमुपलभ्य लोकत्रयं प्रव्यथितं अत्यन्तभीतं जातं। हे महात्मन्साधूनामभयदायक? इतः परमिदमुपसंहरेत्यभिप्रायः।