Sbg 11.16 scms
Jump to navigation
Jump to search
Sanskrit Commentary By Sri Madhusudan Saraswati ।।11.16।।यत्र भगवद्देहे सर्वमिदं दृष्टवान् तमेव विशिनष्टि -- अनेकेति। बाहव उदराणि वक्त्राणि नेत्राणि चानेकानि यस्य तमनेकबाहूदरवक्त्रनेत्रं पश्यामि त्वां सर्वतः सर्वत्र। अनन्तानि रूपाणि यस्येति तम्। तव तु पुनर्नान्तमवसानं न मध्यं नाप्यादिं पश्यामि सर्वगतत्वात्। हे विश्वेश्वर हे विश्वरूप। संबोधनद्वयमतिसंभ्रमात्।