Sbg 11.16 scjaya
Sanskrit Commentary By Sri Jayatritha ।।11.16।।अनेकबाहूदरवक्त्रनेत्रं इत्यत्रानेकशब्दस्य द्व्यादौ पर्यवसानात् विवक्षितमर्थमाह -- अनेकेति । अनेनानेकवक्त्रनयनमित्यपि व्याख्यातम्। कुत एतत् इत्यत आह -- अनन्तेति ।सर्वत इत्यस्यार्थस्तात्पर्यनिर्णयेऽवगन्तव्यः इत्यादि च वक्ष्यति। बाहुभ्यां प्रधानाभ्यां? पतत्त्रैः पतत्त्रसदृशैरितरबाहुभिः? सन्धमति अग्न्यादिभूतानि संयोजयतीति प्रत्येकमन्वयः। सन्नमतीत्यस्याप्ययमेवार्थः। एतयोर्मन्त्रयोः प्रकृतानुपयोगादयुक्तमुदाहरणमित्यत आह -- विश्वशब्दश्चेति । तथा च प्रथमार्थे तसिरित्युक्तं भवति। स्पष्टार्थो चात्र श्रुतिमाह -- अनन्तबाहुमिति । यदि भगवाननन्तबाह्वादिस्तद्य परममहत्परिमाणः स्यात्। अन्यथा तदयोगात्। न च तद्युक्तम्।रूपं महत्ते [11।23] इति महत्त्वमात्रोक्तेः। तथाबहुवक्त्रनेत्र [11।23] इति बहुत्वमात्रोक्तेरनन्तबाह्वादित्वोक्तिश्चानुपपन्नेत्यत आह -- महत्त्वादिति । स्यादयं विरोधो यदि भगवद्रूपस्य महत्त्वमात्रं तदवयवानां च बहुत्वमात्रमुच्येत्। न चैवम्? अवच्छेदकाश्रवणात्। महत्त्वबहुत्वोक्तिस्तु परममहत्त्वात्मकत्वेनानन्तावयत्वेन च सह सम्भवति। परममहति महत्त्वस्यानन्ते बहुत्वस्यान्तर्भावादित्यर्थः।अवच्छेदकानुक्तावप्यवान्तरमहत्त्वादिग्रहणे को दोषः इत्यत आह -- अन्यथेति । तत्र परममहत्त्वस्यानन्तावयवत्वस्य चोक्तेरिति भावः।पश्यामि त्वां सर्वतोऽनन्तरूपंत्वया ततं विश्वमनन्तरूप [11।38] इत्यनन्तशब्दद्वयस्य माहात्म्यातिशयसूचनायार्थभेदमाह -- एकत्र त्विति । अपरिमाणोऽपरिच्छिन्न इत्यनन्तरूप इति सम्बन्धः। स्यादिदं व्याख्यानं यदीदं द्वयं प्रामाणिकं स्यादित्यत आह -- उक्तं हीति । महान्तं महत्।महतो महान्तं इत्यनन्तमपरिच्छिन्नपरिमाणं रूपमस्येत्युक्तार्थे प्रमाणम्। एकं भिन्नमपि अनन्तरूपमित्यनन्तसङ्ख्यान्यस्य रूपाणीत्यत्र। ननुमहतो महान्तं इति महत्तत्त्वान्महत्त्वमेवोच्यते? न त्वन्तत्वम्। ततश्चयदेकमव्यक्तं इत्यव्यक्तव्यापित्ववचनात्तत्साम्यमेव सिध्यतीत्यत आह -- अव्यक्तस्येति । महतो महत्त्वेऽव्यक्तव्यापित्वे चेत्यपि ग्राह्यम्। अव्यक्तस्यानन्तत्वं कुतः इत्यत आह -- महान्तं चेति । अनन्तस्य विष्णोः प्रतिमाभूतस्य तस्यान्तः परिमाणं परिच्छेदः? कार्यतः सङ्ख्यानं सङ्ख्यापरिच्छेदोऽपि न विद्यते। प्रकारान्तरेणानन्तरूपशब्दद्वयस्यार्थभेदमाह -- तानि चेति । एकस्यानन्तरूपशब्दस्यानन्तसङ्ख्यारूपार्थत्वे स्थिते सत्येकत्रानन्तरूपशब्दे तानि चानन्तसङ्ख्यानि रूपाणि प्रत्येकमपरिच्छिन्नपरिमाणानीत्यर्थो भवतीत्यर्थः। अत्र प्रमाणमाह -- असङ्ख्याता इति। ज्ञानकाः ज्ञानानन्दात्मकाः। अयं बहिर्व्याप्त आकाशः परमात्मा यावान् यावत्परिमाणस्तावानेवैषोऽन्तर्हृदये स्थितः परमात्मेत्यर्थः। गर्भे जठरे जगद्यस्यासौ तथोक्तः। अवसन्नोऽवनतः। गर्भजगत्त्वेनापरिच्छिन्नपरिमाणत्वं लभ्यते। कृष्णादीनामप्यपरिच्छिन्नपरिमाणत्वं वदन्तो वक्तव्याः। तत्राल्पपरिमाणप्रतीतिर्या सा किं भ्रान्तिरुत प्रमितिः इति। आद्ये क्रियादेर्द्विभुजचतुर्भुजादेश्च मिथ्यात्वं स्यात्। न द्वितीयः? युगपदेकत्राल्पानल्पपरिमाणसमावेशस्यायुक्तत्वात्। अतोऽपरिच्छिन्नपरिमाणोक्तिरुपचारमात्रमिति चेत्? किमिदमनेकपरिमाणत्वस्यायुक्तत्वं किमन्यत्रादर्शनेनासम्भावितत्वम् उत नायमल्पानल्पपरिमाणोपेतो द्रव्यत्वात्। नायं परममहत्परिमाणः? अल्पपरिमाणत्वात् पटवदित्यादियुक्तिविरुद्धत्वम्।अथातिप्रसङ्गदुष्टत्वं किंवाऽप्रामाणिकत्वम् नाद्य इत्याह -- न चेति । अघटितघटनाशक्त्युपेते किं नामासम्भावितमिति भावः। न द्वितीयः? ईश्वरस्य युक्त्यगोचरत्वेन तदनवकाशादिति भावेनाह -- अचिन्त्या इति । एषा ब्रह्मविषया। अपनेया निराकार्या। अतिप्रसङ्गोऽपि किं यदीश्वरो विरुद्धपरिमाणद्वयोपेतः स्यात् तदा निर्दुःखो दुःखी स्यादितीश्वरमधिकृत्य स्यात् उत प्राणादयोऽपि तथा स्युः तथा चाणुश्चेत्यादिका तद्विषयवाक्यव्यवस्था नाङ्गीक्रियेतेत्यन्यदधिकृत्य स्यात्। आद्यं दूषयति -- अतिप्रसङ्गस्त्विति । अविशेषमाश्रित्य ह्ययमतिप्रसङ्गः? नचासावस्ति निर्दोषानन्तगुणत्वे हरेः श्रुतीनां महातात्पर्येण दुःखादेस्तद्विरोधात्? परिमाणद्वयस्य तु तदविरोधात्? दुःखादेरप्रामाणिकत्वात्? परिमाणद्वयस्य तूक्तवक्ष्यमाणवाक्यसिद्धत्वादिति भावः। विपर्ययापर्यवसायी चायं प्रसङ्ग इति भावेनाह -- न हीति । यदि घटः पृथुबुध्नोदराकारः स्यात्तर्हि पदार्थो न स्यात् तथाविधस्य पदार्थस्य कस्याप्यदृष्टत्वादिति प्रसङ्गो यथा न युक्तः? भवति च पदार्थस्तस्मात्पृथुबुध्नोदराकारः? न भवतीति विपर्ययस्य प्रमाणबाधितत्वेनापर्यवसानात्? तथात्वेन तस्य धर्मिग्राहकप्रमाणदृष्टत्वात्। तथा प्रकृतेऽपीति। एतेनानुमानानां कालात्ययापदिष्टत्वं चोक्तं भवति। प्राणादिकमधिकृत्यातिप्रसङ्ग इति द्वितीयं निराकरोति -- केषुचिदि ति। अत्रापि सम्भावनाहेतुभावाभावाभ्यां विशेषादविशेषोऽसिद्ध इति भावः।चतुर्थं निरस्यति -- गुणा इति । श्रुता अश्रुता अपि सुविरुद्धा अन्यत्र सहादृष्टा अविरुद्धाश्च। तथा गुणा इव दोषाः श्रुता अश्रुताश्च नैव सन्ति? किन्त्वज्ञैर्मिथ्यादृष्टिभिर्हि तथा सन्तीति प्रतीताः। एवं परे ईश्वरे स्थितिः? ततोऽन्यत्र तु श्रुतानां प्रमाणान्तरसिद्धानां च गुणदोषाणां व्यवस्थावस्थानम्। तच्च क्रमादुत्तमेषु गुणबाहुल्यं दोषाल्पत्वं? मध्यमेषूभयसाम्यम्? अवरेषु दोषबाहुल्यं गुणाल्पत्वमिति। तदेवमसम्भावनाद्यभावान्न भगवति अपरिच्छिन्नपरिमाणत्वोक्तेरुपचरितत्वं कल्प्यम्। अर्जुनेनापि तन्निराकृतमिति भावेनाह -- उपचारत्वेति ।नान्तं न पुनस्तवादिं पश्यामि इत्याद्यन्ताभावोक्तेरुपचरितत्वपरिहाराय न मध्यमित्युक्तम्। मध्यनिराकरणार्थमेव तत्किं न स्यात् इत्यत आह -- अन्यथेति । उपचारत्वपरिहारार्थत्वाभावे तद्वैयर्थ्यं स्यादिति शेषः। कुतः आद्यन्तसापेक्षत्वात् मध्यस्य तदभावोक्त्यैव तदभावसिद्धेः। विश्वं महदादिकं रूपं स्वरूपमस्येति प्रतीतिं सप्रमाणकं निवायरति -- विश्वरूप इति । एतच्चाभ्यासरूपमिति मन्तव्यम्।