Sbg 10.9 scsh
Jump to navigation
Jump to search
Sanskrit Commentary By Sri Shankaracharya ।।10.9।। --, मच्चित्ताः? मयि चित्तं येषां ते मच्चित्ताः? मद्गतप्राणाः मां गताः प्राप्ताः चक्षुरादयः प्राणाः येषां ते मद्गतप्राणाः? मयि उपसंहृतकरणाः इत्यर्थः। अथवा? मद्गतप्राणाः मद्गतजीवनाः इत्येतत्। बोधयन्तः अवगमयन्तः परस्परम् अन्योन्यम्? कथयन्तश्च ज्ञानबलवीर्यादिधर्मैः विशिष्टं माम्? तुष्यन्ति च परितोषम् उपयान्ति च रमन्ति च रतिं च प्राप्नुवन्ति प्रियसंगत्येव।।ये यथोक्तैः प्रकारैः भजन्ते मां भक्ताः सन्तः --,