Sbg 10.7 scvv
Sanskrit Commentary By Sri Vedantadeshikacharya Venkatanatha
।।10.7।।एतां विभूतिं योगं च इति -- पूर्वोक्तार्थस्य बुद्धिस्थक्रमेणानुवादः।स्वकल्याण [गी.सं.14] इत्यादिसंग्रहश्लोके त्वयमेवार्थो यथाक्रममुक्तः तदनुसारेण पदार्थवाक्यार्थावाहविभूतिरैश्वर्यमित्यादिना।सर्वस्य मदायत्तोत्पत्तिस्थितिप्रवृत्तितारूपां विभूतिमिति। तन्निरूप्यत्वात्तत्तत्सामानाधिकरण्यम्। उत्पत्तिस्थित्योरपि सङ्कल्पाधीनत्वान्नियमनविषयत्वम्। प्रवृत्तिरिह स्वकार्यार्थव्यापारः? स्पन्दादेरसार्वत्रिकत्वात्।विभूतिर्भूतिरैश्वर्यम् [अमरः1।1।38] इति नैघण्टुकाः। विभुशब्दश्च नियन्तरि प्रयुक्तचरः। अतो विभवनमिह नियमनमेव वक्ति? तस्य भावार्थतास्वारस्यात् अनपवादाच्च। वस्त्वन्तरसामानाधिकरण्यवद्विभूतिशब्देषु तु नियन्तव्यविषयता वक्ष्यते। युज्यत इति व्युत्पत्त्या उभयलिङ्गत्वमिह योग उक्तः। ईश्वरेऽनीश्वरस्वभावभूतपारतन्त्र्यदुःखाज्ञानाद्यारोपमनीश्वरे चेश्वराधीनस्वातन्त्र्यादेः स्वतस्सिद्धत्वाद्यारोपं च परित्यज्येतितत्त्वतः इत्यस्य भावः।अविकम्प्येन इत्यत्र स्वतः कम्पराहित्यमात्रव्युदासेन बाधकशतैरप्यविचाल्यत्वं च दर्शयितुम् -- अप्रकम्प्येनेत्युक्तम्। पूर्वापरपरामर्शादुपासकान्वितयोगशब्दस्य योगविशेषनिष्ठतामाह -- भक्तियोगेनेति। शास्त्रसिद्धस्याप्यर्थस्य साक्षात्कारे सत्येव ह्यत्यन्तवैशद्यमित्यभिप्रायेणनात्र संशयः इत्यस्याशयं विशदयति -- मद्विभूतीति।