Sbg 10.5 scsh
Jump to navigation
Jump to search
Sanskrit Commentary By Sri Shankaracharya ।।10.5।। --, अहिंसा अपीडा प्राणिनाम्। समता समचित्तता। तुष्टिः संतोषः पर्याप्तबुद्धिर्लाभेषु। तपः इन्द्रियसंयमपूर्वकं शरीरपीडनम्। दानं यथाशक्ति संविभागः। यशः धर्मनिमित्ता कीर्तिः। अयश स्तु अधर्मनिमित्ता अकीर्तिः। भवन्ति भावाः यथोक्ताः बुद्ध्यादयः भूतानां प्राणिनां मत्तः एव ईश्वरात् पृथग्विधाः नानाविधाः स्वकर्मानुरूपेण।।किञ्च --,