Sbg 10.5 scdhan
Jump to navigation
Jump to search
Sanskrit Commentary By Sri Dhanpati ।।10.5।।अहिंसा प्राणिनामपीडा। समता समचित्तता। तुष्टिः संतोषोऽलंबुद्धिः। इन्द्रियसंयमपुरःसरं शास्त्रीयं देहपीडनं तपः। देशकालानुरोधेन शक्तिमतिक्रम्य श्रद्धयापात्रेऽर्थानामर्पणं दानम्। धर्मनिदाना कीर्तियेशः। अधर्मनिदानाऽपकीर्तिरपयशः। एते यथोक्ता भावाः पृथग्विधा नानाप्रकारा भूतानां स्वकर्मानुसारेण मत्तएवेश्वराद्भवन्ति। अतोऽहमेव सर्वलोकमहेश्वरः सर्वैर्भोगमोक्षार्थं शरणीकरणीय इति भावः।