Sbg 10.4 scsh

From IKS BHU
Jump to navigation Jump to search

Sanskrit Commentary By Sri Shankaracharya ।।10.4।। --, बुद्धिः अन्तःकरणस्य सूक्ष्माद्यर्थावबोधनसामर्थ्यम्? तद्वन्तं बुद्धिमानिति हि वदन्ति। ज्ञानम् आत्मादिपदार्थानामवबोधः। असंमोहः प्रत्युत्पन्नेषु बोद्धव्येषु विवेकपूर्विका प्रवृत्तिः। क्षमा आक्रुष्टस्य ताडितस्य वा अविकृतचित्तता। सत्यं यथादृष्टस्य यथाश्रुतस्य च आत्मानुभवस्य परबुद्धिसंक्रान्तये तथैव उच्चार्यमाणा वाक् सत्यम् उच्यते। दमः बाह्येन्द्रियोपशमः। शमः अन्तःकरणस्य उपशमः। सुखम् आह्लादः। दुःखं संतापः। भवः उद्भवः। अभावः तद्विपर्ययः। भयं च त्रासः? अभयमेव च तद्विपरीतम्।।