Sbg 10.4 scneel
Jump to navigation
Jump to search
Sanskrit Commentary By Sri Neelkanth ।।10.4।।मम महेश्वरत्वादेव मत्तो बुद्ध्यादयो भवन्तीत्याह -- बुद्धिरिति। बुद्धिरन्तःकरणस्य सूक्ष्मार्थावबोधने सामर्थ्यम्? ज्ञानमात्मानात्मादिपदार्थावबोधः। असंमोहः प्रत्युत्पन्नेषु बोद्धव्येष्वव्याकुलतया विवेकपूर्विका प्रतिपत्तिः। क्षमा आकृष्टस्य ताडितस्य वाऽविकृतचित्तता। सत्यं प्रमाणेनावगतस्यार्थस्य यथार्थत्वेन भाषणम्। दमो बाह्येन्द्रियनियमः। शमो मनोनिग्रहः। सुखमाह्लादः। दुःखं तापः। भव उत्पत्तिः। भावः सत्ता अभावस्तद्विपर्ययः। भयं त्रासः। अभयमेव च तद्विपरीतम्।