Sbg 10.4 scjaya
Jump to navigation
Jump to search
Sanskrit Commentary By Sri Jayatritha ।।10.4।।तर्ह्यादिमित्यनेन बुद्धिरित्यादिकं गतार्थमित्यत आह -- तदि ति। सर्वादित्वं बुद्धिरुपलब्धिर्ज्ञानमित्यनर्थान्तरमिति गौतमवचनात्। बुद्धिर्ज्ञानमिति पुनरुक्तिरित्यत आह -- कार्ये ति। कुत एतदित्यत आह -- ज्ञानमि ति। ज्ञायतेऽनेनेति ज्ञानं शास्त्रमित्यसत्? अध्यात्मिकधर्मप्रसङ्गात्। दमो बाह्येन्द्रियोपशमः? शमोऽन्तःकरणस्योपशम इति कश्चित् (शं.) तदसत्? एकेनैव शब्देन सिद्धत्वात्? किन्तु दमः क्रियासु विनयः? शमो बाह्यान्तःकरणसंयम इत्यपरः? तदप्यसदिति भावेनाह -- दम इति। कुत इत्यत आह --, शम इति।