Sbg 10.42 scsri
Jump to navigation
Jump to search
Sanskrit Commentary By Sri Sridhara Swami ।।10.42।। अथवा किमनेन परिच्छिन्नज्ञानेन सर्वत्र समदृष्टिमेव कुर्वित्याह -- अथवेति। बहुना पृथग्ज्ञातेन किं तव कार्यं। यदिदं सर्वं जगदेकांशेनैकदेशमात्रेण विष्टभ्य धृत्वा व्याप्येति वाहमेव स्थितः न मद्व्यतिरिक्तं किंचिदस्तिपादोऽस्य विश्वा भूतानि इति श्रुतेः।