Sbg 10.42 scram
Jump to navigation
Jump to search
Sanskrit Commentary By Sri Ramanuja ।।10.42।। बहुना ऐतेन उच्यमानेन ज्ञानेन किं प्रयोजनम् इदं चिदचिदात्मकं कृत्स्नं जगत् कार्यावस्थं कारणावस्थं स्थूलं सूक्ष्मं च स्वरूपसद्भावे स्थितौ प्रवृत्तिभेदे च यथा मत्संकल्पं न अतिवर्तेत तथा मम महिम्नः अयुतायुतांशेन विष्टभ्य अहम् अवस्थितः। यथा उक्तं भगवता पराशरेण -- यस्यायुतायुतांशांशे विश्वशक्तिरियं स्थिता। (वि0 पु0 1।9।53) इति।