Sbg 10.42 scpur

From IKS BHU
Jump to navigation Jump to search

Sanskrit Commentary By Sri Purushottamji


।।10.42।।एवं विभूत्यादिमत्सु भगवदंशज्ञानेनान्यत्र हेयत्वादिबुद्धौ सर्वस्य भगवदात्मकत्वं भज्येतेत्यन्यं प्रकारमाह -- अथवेति। अथवा पक्षान्तरेण। हे अर्जुन तव बहुना नानाविधेन ज्ञातेन किं कार्यम् न किमपीत्यर्थः। यत एतेन नानाज्ञानेन न किञ्चित् कार्यम्? अतः कार्योपयोगिस्वरूपमाह -- इदं परिदृश्यमानं जगत् कृत्स्नं सम्पूर्णं एकांशेन क्रीडात्मकेन विष्टभ्य धृत्वा स्थितोऽस्म्यहमेवेत्यर्थः। अनेन सर्वं मत्क्रीडारूपमेव चिन्तयेति भावो बोधितः।प्रतीयते जगन्नानाविधं स्वाज्ञानभावतः।विभूतिरूपं श्रीकृष्णस्तन्नाशायाऽब्रवीन्नरम्।।10।।


इति श्रीभगवद्गीतामृततरङ्गिण्यां दशमोऽध्यायः।।10।।