Sbg 10.17 scanand
Jump to navigation
Jump to search
Sanskrit Commentary By Sri Anandgiri ।।10.17।।किमर्थं विभूतीः श्रोतुमिच्छसीत्याशङ्क्य ध्यानसौकर्यप्रकारप्रश्नेन फलं कथयति -- कथमिति। योगो नामैश्वर्यं तदस्यास्तीति योगी हे योगिन्? अहं स्थविष्ठमतिस्त्वां केन प्रकारेण सततमनुसंदधानो विशुद्धबुद्धिर्भूत्वा निरुपाधिकं त्वां विजानीयामिति प्रश्नः। प्रश्नान्तरं प्रस्तौति -- केषु केष्विति। चेतनाचेतनभेदादुपाधिबहुत्वाच्च बहुवचनम्।