Sbg 10.14 scsh

From IKS BHU
Jump to navigation Jump to search

Sanskrit Commentary By Sri Shankaracharya ।।10.14।। --, सर्वमेतत् यथोक्तम् ऋषिभिः त्वया च एतत् ऋतं सत्यमेव मन्ये? यत् मां प्रति वदसि भाषसे हे केशव। न हि ते तव भगवन्, व्यक्तिं प्रभवं विदुः न देवाः? न दानवाः ।।यतः त्वं देवादीनाम् आदिः? अतः --,