Sbg 10.14 scdhan

From IKS BHU
Jump to navigation Jump to search

Sanskrit Commentary By Sri Dhanpati ।।10.14।।एतस्सर्वं सत्यं मन्ये यन्भां वदसि केशव ब्रह्मादीन्प्रत्यन्तर्यामितया गच्छतीति सः तस्य संबोधनं हे केशवेति। ब्रह्मदिमुखेनापि त्वमेव वदसीति भावः। हि यस्मात्त तव व्यक्तिं प्रभावं देवा न विदुःऐश्वर्यस्य समग्रस्य धर्मस्य यशसः श्रियः। वैराग्यस्य च ज्ञानस्य षण्णां भग इदीङ्गना इत्युक्तो भगवांस्तत्वमेव स्वप्रभावं कथयितुं समर्थोऽसि नत्वन्यः स्वसामर्थ्येनेति सूचयन्नाह -- हे भगवनन्निति।