Sbg 10.12 scpur

From IKS BHU
Jump to navigation Jump to search

Sanskrit Commentary By Sri Purushottamji


।।10.12।।एवंन मे विदुः सुरगणाः [10।2] इत्यादिना सर्वेषां स्वावेदनयुक्तानांयो मामजमनादिं च [10।3] इत्यादिना स्वज्ञानस्योत्तमत्वं प्रतिपादितम्। ततः सर्वभावोत्पत्तिः स्वत उक्ता स्वरूपा या? स्वस्वविभूतिज्ञस्य स्वभजने स्वप्राप्तिमुक्तवान्? एतत्सर्वजिज्ञासुरर्जुनः प्रभुं विज्ञापयति सप्तभिः। विज्ञप्तेरपि भगवदात्मत्वाय षड्गुणधर्मिसमसङ्ख्यैः श्लोकैर्विज्ञापयति -- अर्जुन उवाच। परं ब्रह्मेति। परं पुरुषोत्तमाख्यं ब्रह्म बृहद्व्यापकं परं धाम पुरुषोत्तमात्मकतेजोरूपं रमणात्मगृहात्मकं वा? परमं पवित्रं सर्वोत्कृष्टं सर्वपावनम्? एतत्सर्वरूपो भवान् सत्यमेवेत्यर्थः। कथमेवमवगतं इत्यत आह -- पुरुषमिति। पुरुषं पुरुषोत्तमम्। अन्यत्रापि तथात्वमाशङ्क्य शाश्वतं नित्यमिति। अक्षरादिष्वपि नित्यत्वमाशङ्क्य दिव्यमित्याह क्रीडनैकरूपम्। अवतारादिष्वपि तथात्वमाशङ्क्याह -- आदिदेवमिति। मूलरूपमित्यर्थः। परिदृश्यमानजन्माद्याशङ्कायामाह -- अजमिति। जन्मरहितम्। जन्माभावे जन्मप्रतीतिः कथं इत्यत आह -- विभुमिति। समर्थमित्यर्थः। तथाप्रतीतिकरणसमर्थमिति भावः।