Sbg 10.12 scanand
Sanskrit Commentary By Sri Anandgiri ।।10.12।।निरस्ताशेषविशेषं निरुपाधिकं सोपाधिकं च सर्वात्मत्वादि भगवतो रूपं तद्धीफलं च श्रुत्वा निरुपाधिकरूपस्य प्राकृतबुद्ध्यनवगाह्योक्तिपूर्वकं मन्दानुग्रहार्थं सर्वदा सर्वबुद्धिग्राह्यं सोपाधिकं रूपं विस्तरेण,श्रोतुमिच्छन्पृच्छतीत्याह -- यथोक्तामिति। परं ब्रह्म भवानिति लक्ष्यनिर्देशः। तस्य लक्षणार्थं परं धामेत्यादिविशेषणत्रयम्। धामशब्दस्य स्थानवाचित्वं व्यावर्तयन्व्याचष्टे तेज इति। तस्य चैतन्यस्य परमत्वं जन्मादिराहित्येन कौटस्थ्यम्। प्रकृष्टं पावनमत्यन्तशुद्धत्वमुच्यते। यदेवंलक्षणं परं ब्रह्म तद्भवानेव नान्य इत्यर्थः। कुतस्त्वमेवमज्ञासीरित्याशङ्क्याप्तवाक्यादित्याह -- पुरुषमिति। दिवि परमे व्योम्नि भवतीति दिव्यस्तं सर्वप्रपञ्चातीतं दीव्यति द्योतत इति देवः स चादिः सर्वमूलत्वादत एवाजस्तं त्वां सर्वगतमाहुरिति संबन्धः।