Sbg 10.10 scneel

From IKS BHU
Jump to navigation Jump to search

Sanskrit Commentary By Sri Neelkanth ।।10.10।।उपासनायाः फलमाह -- तेषामिति। सततयुक्तानां नित्योत्साहवताम्। प्रीतिः प्रेमा तत्पूर्वकं भजतां सेवमानानां तेभ्यो ददामि तं बुद्धियोगं ज्ञानरूपं योगं समाधिम्। ज्ञाननिष्ठामित्यर्थः। तां ददामि येन यया निष्ठया ते मामुपयान्ति समुद्रमिव नद्योऽभेदेन प्रविशन्ति।