Sbg 1.37 scdhan

From IKS BHU
Jump to navigation Jump to search

Sanskrit Commentary By Sri Dhanpati ।।1.37।।एवं युद्धस्य निष्फलतामनर्थहेतुतां चोपपाद्योपसंहरति तस्मादिति। ब्रह्मविद्यापतित्वात्तत्साधने प्रवर्तयितुमर्हसि नत्वस्मिन्क्लेशदे कर्मणीति सूचयन्नाह माधवेति। स्वजनसुखेन सुखार्थस्य राज्यलक्ष्मीपतित्वस्य स्वजननाशेन सुखाजनकत्वात्स्वजनं हत्वा कथं सुखिनः स्याम यतस्तवापि लक्ष्मीपतित्वं स्वजनार्थमेवेति वा माधवेति संबोधनेन सूचयति। लक्ष्मीपतित्वान्नालक्ष्मीके कर्मणि प्रवर्तयितुमर्हसीति भाव इति केचित्।