Sbg 1.36 scsri
Jump to navigation
Jump to search
Sanskrit Commentary By Sri Sridhara Swami ।।1.36।। ननु च अग्निदो गरदश्चैव शस्त्रपाणिर्धनापहः। क्षेत्रदारापहर्ता च षडेते ह्याततायिनः।। इति स्मरणात्। अग्निद इत्यादिभिः षड्भिरपि हेतुभिरेते तावदाततायिनः। आततायिनां च वधो युक्त एव।आततायिनमायान्तं हन्यादेवाविचारयन्। नाततायिवधे दोषो हन्तुर्भवति कश्चन।। इति वचनात्तत्राह सार्धेन पापमिति। अततायिनमायान्तम् इत्यादिकमर्थशास्त्रं धर्मशास्त्राद्दुर्बलम्। यथोक्तं याज्ञवल्क्येन स्मृत्योर्विरोधे न्यायस्तु बलवान्व्यवहारतः। अर्थशास्त्रात्तु बलवद्धर्मशास्त्रमिति स्थितिः।। तस्मादाततायिनामप्येतेषामार्यादीनां वधेऽस्माकं पापमेव भवेदन्याय्यत्वादधर्मत्वाच्चैतद्वधस्य न चेह सुखं स्यादित्याह स्वजनं हीति।