Sbg 1.36 scdhan

From IKS BHU
Jump to navigation Jump to search

Sanskrit Commentary By Sri Dhanpati ।।1.36।।ननु बह्वपकर्तुर्धृतराष्ट्रस्य पुत्रान्दुःखदातृ़न्निहत्य स्थितानां युष्माकां प्रीतिर्भविष्यतीति चेत्तत्राह निहत्येति। धार्तराष्ट्रान्निहत्य नोऽस्माकं का प्रीतिः स्यातः। न कापीत्यर्थः। अपकर्तर्यपि वृद्धेऽपकारो न कार्य इति धृतराष्ट्रसंबन्धप्रदर्शनाशयः। तव तु दुष्टजनघातेन स्वसंबन्धिप्रसन्नता संपद्यते अस्माकं तु सापि नास्ति अस्मत्संबन्धिनामवश्यंभाविनाशदर्शनादिति सूचयन्नाह जनार्दनेति। जनार्दनेति संबोधनेन यद्येते वध्यास्तर्हि त्वमेवैताञ्जहि प्रलये सर्वजनहिंसकत्वेऽपि सर्वेपापासंसर्गित्वादिति सूचयतीति केचित्। ननुअग्निदो गरदश्चैव शस्त्रपाणिर्धनापहः। क्षेत्रदारहरश्चैव षडेते ह्याततायिनः।। इति वचनादाततायिन एतान्हत्वानाततायिवधे दोषः इति वचनाद्युष्मान्पापं


नाश्रयिष्यति अपित्वाततायिन एतानेवेत्यत आह पापमिति। एतानाततायिनो हत्वाऽस्मानेव पापमाश्रयेत्।द्वाविमौ पुरुषौ लोके सूर्यमण्डलभेदिनौ। परिव्राड्योगयुक्तश्च रणे चाभिमुखो हतः।। इत्यादिना हतस्य पापापगमाच्छ्रेयोविशेषाभिधानात् हननकर्तृभूतानस्मानेव हिंसानिबन्धनं पापमाश्रयेदितिआततायिनमायान्तं हन्यादेवाविचारयन्। नाततायिवधे दोषो हन्तुर्भवति कश्चन।। इति वचनं त्वर्थशास्त्रत्वेन दुर्बलत्वात्न हिंस्यात्सर्वा भूतानि इति प्रबलेन धर्मशास्त्रेण बाध्यते। तदुक्तं याज्ञवलक्येनस्मृत्योर्विरोधे न्यायस्तु बलवान्व्यहारतः। अर्थशास्त्रात्तु बलवद्धर्मशास्त्रमिति स्थितिः। इत्यभिप्रायः। युद्धायानुद्यतानस्मान्हत्वैतानाततायिनः। पापमेवाश्रयेदिति वा एतान्हत्वाततायिनोऽस्मानेवेति वेति पक्षत्रयेऽपि एतदादेर्हननक्रियांप्रति कर्तृत्वे क्त्वाप्रत्ययः स्थित्यादिक्रियामध्याहृत्योपपद्यते।