Sbg 1.15 scdhan
Jump to navigation
Jump to search
Sanskrit Commentary By Sri Dhanpati ।।1.15।।हृषीकेश इन्द्रियेश इति पदं पाण्डवानां पाण्यादीन्द्रियेभ्यो बलप्रदः परेषां तु तेभ्यस्तदप्रदः प्रत्युत हारक इति सूचनार्थम्। दिग्विजये गोग्रहे च राज्ञो भीष्मादींश्च जित्वा धनं गोधनं चाहृतवानतः सर्वैरप्ययमजेय इति कथयितुं धनंजयपदम्। माधवार्जुनयोः शङ्खशब्दं श्रुत्वा संहृष्टो युद्धरसिको भीमसेनोऽपि शङ्खं वादितवानित्याह पौण्ड्रमिति। अतिरौद्रे दुःशासनरक्तपानादिकर्मणि समर्थस्तेन पीतं च रक्तमपि तदुदरस्थवृकाग्निना जीर्णं भविष्यतीति भीमकर्मा वृकोदर इति पदाभ्यां सचितम्। भीमं हिडिम्बवधादिरुपं कर्म यस्य तादृशो वृकोदरत्वेन बह्वन्नपाकादतिबलिष्ठ इति कथितमितिकेचित्।