Sbg 1.14 scvv

From IKS BHU
Jump to navigation Jump to search

Sanskrit Commentary By Sri Vedantadeshikacharya Venkatanatha


।।1.14।।ततः श्वेतैः इत्यादिकंधनञ्जयः इत्यन्तं व्याचष्टे ततस्तमिति। तत इति व्याख्येयपदम्।तं घोषमाकर्ण्य इति तद्विवक्षितकथनम्।सर्वेश्वरेश्वरः पार्थसारथिरिति सर्वोत्कृष्टेभ्य उत्कृष्टः परमपुरुषो निकृष्टमानुषमात्रादपि निकृष्टतामाश्रितवात्सल्येन नीत इति भावः। पाण्डवविजयसूचनाय सञ्जयेनोपात्तोमाधवशब्दोऽत्र श्रियःपतित्ववाची सर्वेश्वरेश्वरत्वपर एव।स्यन्दने स्थितौ इत्यविशेषेण स्थितिव्यवच्छेदाय सारथित्वरथित्वविभागः।श्वेतैः इत्यादिना प्रतिपादितमहत्त्वव्यक्त्यर्थमुक्तंत्रैलोक्येति नात्र परिमाणादिमहत्त्वमात्रं विवक्षितमिति भावः।त्रैलोक्यं कम्पयन्ताविति तयोः स्यन्दने स्थितिमात्रमपि त्रैलोक्यकम्पनहेतुरिति भावः। यद्वादिव्यौ शङ्खौ प्रदध्मतुः इत्याद्युक्तप्रकृष्टाध्मानमूलकशङ्खघोषातिशयेननभश्च पृथिवीं चैव 1।19 इति वक्ष्यमाणेन च फलितमिदम्।