Sbg 1.14 scdhan

From IKS BHU
Jump to navigation Jump to search

Sanskrit Commentary By Sri Dhanpati ।।1.14।। स शब्दः परेषां वीरसोद्भावको जातो नतु भयजनक इत्याशयेन तेषां शङ्खपूरणे प्रवृत्तिमाह तत इति। तुमुलशब्दानन्तरं श्वेतैर्हयैः शुक्लवर्णैरश्वैरतिबलपराक्रमैर्युक्तैऽग्निना दत्ते महात्युत्तमे रथे स्थितौ नतु भयप्रचलितौ माधवो लक्ष्मीपतिः पाण्डवोऽर्जुनश्चैव दिव्यावप्राकृतौ शङ्खौ प्रदध्मतुः पुरितवन्तौ। माधव इति शङ्खशब्देनैव तव पुत्रेभ्यो राज्यलक्ष्मीमाहृतवानिति सूचनार्थम्। पाण्डव इत तदीयराज्यं तस्यैव भविष्यतीति।