Sbg 1.11 scsri
Jump to navigation
Jump to search
Sanskrit Commentary By Sri Sridhara Swami ।।1.11।। तस्माद्भवद्भिरेवं वर्तितव्यमित्याह अयनेष्विति। अयनेषु व्यूहप्रवेशमार्गेषु यथाभागं विभक्तां स्वां स्वां रणभूमिमपरित्यज्यावस्थिताः सन्तः सर्वे भीष्ममेवाभितो रक्षन्तु यथाऽन्यैर्युध्यमानः पृष्ठतः कैश्चिन्न हन्येत तथा रक्षन्तु। भीष्मबलेनैवास्माकं जीवितमिति भावः।