Sbg 1.11 scneel
Jump to navigation
Jump to search
Sanskrit Commentary By Sri Neelkanth ।।1.11।।अयनेषु व्यूहरचनया स्थिते सैन्ये प्रवेशमार्गेषु स्वे स्वे स्थाने स्थिता यूयं मध्यस्थं भीष्ममेवाभिरक्षन्तु। अस्य सेनापतेश्चाञ्चल्ये सर्वापि सेना आकुलीभवेत्। तत्स्थैर्ये स्थिरा च भवेदतः स एव रक्ष्य इत्यर्थः।