शब्दशक्तिपरीक्षा (पदार्थनिरुपण) प्रकरणम्
Jump to navigation
Jump to search
ते विभक्त्यन्ताः पदम् 2/2/58
व्यक्त्याकृतिजातिसन्निधावुपचारात् संशयः 2/2/59
या शब्दसमूहत्यागपरिग्रहसङ्ख्यावृद्ध्युपचयवर्णसमासानुबन्धानां व्यक्तावुपचाराद् व्यक्तिः 2/2/60
न; तदनवस्थानात् 2/2/61
सहचरणसथानतादर्थ्यवृत्तमानधारणसामीप्ययोगसाधनाधिपत्येभ्यो ब्राह्मणमञ्चकटराजसक्तुचन्दनगङ्गाशाटकान्नपुरुषेप्वतद्भावेऽपि तदुपचारः 2/2/62
आकृतिस्तपदपेक्षत्वात् सत्त्वव्यस्थानसिद्धेः ? 2/2/63
व्यक्त्याकृतियुक्तेऽप्यप्रसङ्गात् प्रोक्षणादीनां मृद्गवके जातिः ? 2/2/64
न, आकृतिव्यक्तयपेक्षत्वाज्जात्यभिव्यक्तेः 2/2/65
व्यक्त्त्याकृतिजातयस्तु पदार्थः 2/2/66
व्यक्तिगुणविशेषाश्रयो मूर्तिः 2/2/67
आकृतिर्जातिलिङ्गाख्या 2/2/68
समानप्रसवात्मिका जातिः 2/2/69