प्रमाणचतुष्ट्वपरीक्षाप्रकरणम्
Jump to navigation
Jump to search
न चतुष्ट्वमैतिह्यार्थापत्तिसम्भवाभावप्रामाण्यात् 2/2/1
शब्द ऐतिह्यानर्थान्तरभावादनुमानेऽर्थापत्तिसम्भवाभावानर्थान्तरभावाच्चाप्रतिषेधः 2/2/2
अर्थापत्तिरप्रमाणमनैकान्तिकत्वात् 2/2/3
अनर्थापत्तावर्थापत्त्यभिमानात् 2/2/4
प्रतिषेधाप्रामाण्यञ्चानैकान्तिकत्वात् 2/2/5
तत्प्रामाण्ये वा नार्थापत्त्यप्रामाण्यम् 2/2/6
नाभावप्रामाण्यं प्रमेयासिद्धेः 2/2/7
लक्षितेष्वलक्षणलक्षितत्वादलक्षितानां तत्प्रमेयसिद्धिः 2/2/8
असत्यर्थे नाभाव इति चेत्र, अन्यलक्षणोपपत्तेः 2/2/9
तत्सिद्धेरलक्षितेष्वहेतुः 2/2/10
नः लक्षणावस्थितापेक्षासिद्धेः 2/2/11
प्रागुत्पत्तेरभावोपपत्तेश्च 2/2/12