Sbg 6.39 scdhan
Sanskrit Commentary By Sri Dhanpati ।।6.39।।संशयमुक्त्वा तच्छेदनं प्रार्थयते एतदिति। एतं मे मम संशयं हे कृष्ण छेत्तुमपनेतुमर्हस्यशेषतः। उक्तएव कृष्णपदाभिप्रायोऽत्रापि द्रष्टव्यः। नन्वन्यः कश्चिद्देवो वा ऋषिर्वा छेत्स्यति किमेवंप्रार्थनयेत्यत आह। त्वत्तः कृष्णादधिकारिणमाकृष्य तत्तस्थानप्रापकात्तत्तत्कर्मफलप्रदातुः सर्वेश्वरात्सर्वज्ञादन्योऽनीश्वरोऽसर्वज्ञ कश्चिदृषिर्वा देवो वास्य संशयस्य छेत्ताऽपनेता हि यस्मान्न संभवत्यतः त्वमेव छेत्तुमर्हसीत्यर्थः। यत्तु एतन्मे पृष्टं हे कृष्ण असंशयं यथा भवति तथाऽशेषतः सर्वात्मना छेत्तुं निराकर्तुमर्हसीति तन्न। संशयस्यास्येत्यननुरोधप्रसङ्गात्।