Sbg 6.39 scms
Sanskrit Commentary By Sri Madhusudan Saraswati ।।6.39।।यथोपदर्शितसंशयापाकरणाय भगवन्तमन्तर्यामिणमर्थयते पार्थः एतत् एतं पूर्वोपदर्शितं मे मम संशयं हे कृष्ण छेत्तुमपनेतुमर्हस्यशेषतः संशयमूलाधर्माद्युच्छेदेन। मदन्यः कश्चिदृषिर्वा देवो वा त्वदीयमिमंसंशयमुच्छेत्स्यतीत्याशङ्क्याह त्वदन्यः त्वत् परमेश्वरात्सर्वज्ञाच्छास्त्रकृतः परमगुरोः कारुणिकादन्योऽनीश्वरत्वेनासर्वज्ञः कश्चिदृषिर्वा देवो वाऽस्य योगभ्रष्टपरलोकगतिविषयस्य संशयस्य छेत्ता सम्यगुत्तरदानेन नाशयिता हि यस्मान्नोपपद्यते न संभवति तस्मात्त्वमेव प्रत्यक्षदर्शी सर्वस्य परमगुरुः संशयमेतं मम छेत्तुमर्हसीत्यर्थः।