Sbg 6.33 scneel
Sanskrit Commentary By Sri Neelkanth ।।6.33।।साम्ययोगमशक्यं मन्वान उपायान्तरबुभुत्सयार्जुन उवाच योऽयमिति। योयं योगस्त्वया साम्येन प्रोक्तोऽहिंसाप्राधान्येन संन्यासपूर्वकतया वर्णितः हे मधुसूदन तस्य योगस्य सर्ववृत्तिनिरोधरूपस्य स्थिरां स्थितिं न पश्यामि। मनसश्चञ्चलत्वादिति शेषः।