Sbg 6.27 scram
Sanskrit Commentary By Sri Ramanuja ।।6.27।। प्रशान्तमनसम् आत्मनि निश्चलमनसम् आत्मन्यस्तमनसं तत एव हेतोः दग्धाशेषकल्मषं तत एव शान्तरजसं विनष्टरजोगुणं तत एव ब्रह्मभूतं स्वस्वरूपेणावस्थितम् एनं योगिनम् आत्मानुभवरूपम् उत्तमं सुखम् उपैति हि इति हेतौ उत्तमसुखरूपम् उपैति इत्यर्थः।