Sbg 6.24 scjaya
Sanskrit Commentary By Sri Jayatritha ।।6.24।।सर्वानशेषतः इत्येतयोस्तात्पर्यमाह सर्वानि ति। कामः स्वल्पः कादाचित्कोऽपीति मूलपाठः। नन्विन्द्रियग्रामनियमनमेवावश्यकं न तु करणनियमः कथमुच्यते मनसैवेन्द्रियग्राममिति तत्राह मनसैवे ति। स्वरूपकथनमेतदिति भावः। इति ज्ञापयितुमिति शेषः।