Sbg 6.24 scsh
Sanskrit Commentary By Sri Shankaracharya ।।6.24।। संकल्पप्रभवान् संकल्पः प्रभवः येषां कामानां ते संकल्पप्रभवाः कामाः तान् त्यक्त्वा परित्यज्य सर्वान् अशेषतः निर्लेपेन। किञ्च मनसैव विवेकयुक्तेन इन्द्रियग्रामम् इन्द्रियसमुदायं विनियम्य नियमनं कृत्वा समन्ततः समन्तात्।।