Sbg 6.21 scdhan
Sanskrit Commentary By Sri Dhanpati ।।6.21।।किंच सुखमत्यन्तमेव भवतीत्यात्यन्तिकं अनन्तमित्यर्थः। यदेतादृशं ब्रह्मानन्दरुपं सुखं तदुद्य्धैव गृह्यत िति बुद्धिग्राह्मम्।दृश्यते त्वग्र्यया बुद्य्धा सूक्ष्मया सूक्ष्मदर्शिभिः इति श्रुतेः। अतीन्द्रियमिन्द्रियगोचरातीतम्। विषयाजन्यमित्यर्थः। यत्र यस्मिन्कालेऽयं विद्वान् आत्मस्वरुपेणावस्थितो वेत्ति अनुभवति तत्त्वतस्तत्त्वरुपान्नैव चलति। न प्रत्यवत इत्यर्थः।