Sbg 6.21 scneel
Sanskrit Commentary By Sri Neelkanth ।।6.21।।किं च सुखमिति। आत्यन्तिकमनन्तं यत्सुखं तत्केवलं बुद्धिग्राह्यं सौषुप्तसुखवद्यतोऽतीन्द्रियमिन्द्रियागोचरं यत्र सुखे स्थितोऽयं न वेत्ति वेद्याभावान्न किंचिदनुभवति नापि तत्त्वतश्चलति। बुद्धितादातम्याध्यासकाले चलतीवेति भाति परंतु तत्त्वतो न चलति। तथा च श्रुतिःध्यायतीव लेलायतीव इतीवशब्दं प्रयुञ्जाना ध्यानादेरतात्त्विकत्वं दर्शयति। बुद्धौ ध्यायन्त्यां ध्यायतीवेति लेलायन्त्यां लेलायतीवेति श्रुत्यर्थः। यद्वा तत्सुखं यत्रायं न चैव वेत्ति किमपि नैवानुभवति। यत्रेत्यादि भिन्नं वाक्यम्।