Sbg 6.21 scval
Sanskrit Commentary By Sri Vallabhacharya ।।6.21।।आत्मसुखप्राप्तिलक्षणेन फलेन तमेव लक्षयति यत्रेति। सुखमात्यन्तिकं इति च आत्मरूपया बुद्ध्या ज्ञानेन ग्राह्यं इतरेन्द्रियाग्राह्यत्वात् सुखमात्मरूपं निर्दिष्टम् तत्त्वतः आत्मस्वरूपात्सुखात्मत्वाद्धि न चलति।