Sbg 6.20 scval
Sanskrit Commentary By Sri Vallabhacharya ।।6.20।।तमेव योगं स्वरूपतः फलतश्च लक्षयति यत्रेति सार्धैस्त्रिभिः। यत्र यस्मिन् काले योगतन्त्रसेवया निरुद्धं चित्तमुपरमते सर्वत इति स्वरूपलक्षणमुक्तम्। तथाच पातञ्जलसूत्रम् 1।2योगश्चित्तवृत्तिनिरोधः इति।