Sbg 6.19 scms
Sanskrit Commentary By Sri Madhusudan Saraswati ।।6.19।।समाधौ निर्वृत्तिकस्य चित्तस्योपमानमाह दीपचलनहेतुना वातेन रहिते देशे स्थितो दीपो यथाचलनहेत्वभावान्नेङ्गते न चलति सोपमा स्मृता स दृष्टान्तश्चिन्तितो योगज्ञैः। कस्य योगिन एकाग्रभूमौ संप्रज्ञातसमाधिमतोऽभ्यासपाटवाद्यतचित्तस्य निरुद्धसर्वचित्तवृत्तेरसंप्रज्ञातसमाधिरूपं योगं निरोधभूमौ युञ्जतोऽनुतिष्ठतो य आत्मान्तःकरणं तस्य निश्चलतया सत्त्वोद्रेकेण प्रकाशकतया च निश्चलो दीपो दृष्टान्त इत्यर्थः। आत्मनो योगं युञ्जत इति व्याख्याने दार्ष्टान्तिकालाभः सर्वावस्थस्यापि चित्तस्य सर्वदात्माकारतयात्मपदवैयर्थ्यं च। नहि योगेनात्माकारता चित्तस्य संपाद्यते किंतु स्वत एवात्माकारस्य सतो नात्माकारता निवर्त्यत इति। तस्माद्दार्ष्टान्तिकलाभप्रतिपादनार्थमेवात्मपदम्। यतचित्तस्येति भावपरो निर्देशः कर्मधारयो वा। यतस्य चित्तस्येत्यर्थः।