Sbg 6.17 scsri
Sanskrit Commentary By Sri Sridhara Swami ।।6.17।।तर्हि कथंभूतस्य योगो भवतीत्यत आह युक्तेति। युक्तो नियत आहारो विहारश्च गतिर्यस्य कर्मसु कार्येषु युक्ता नियतैव चेष्टा यस्य युक्तौ नियतौ स्वप्नावबोधौ निद्राजागरौ यस्य तस्य दुःखनिवर्तको योगो भवति सिध्यति।